|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.175. अध्यायः 175
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति दारिद्र्यधनिकत्वयोः क्रमेणार्थानर्थसाधनत्वे प्रमाणतया शम्याकगीताया अनुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-175-0x(5893)(71999)
धनिनश्चाधना ये च वर्तयन्ति स्वतन्त्रिणः।
सुखदुःखागमस्तेषां कः कथं वा पितामह॥ 12-175-1(72000)
भीष्म उवाच। 12-175-2x(5894)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
शम्याकेन विमुक्तेन गीतं शान्तिगतेन च॥ 12-175-2(72001)
अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमाश्रितः।
क्लिश्यमानः कुदारेण कुचेलेन बुभुक्षया॥ 12-175-3(72002)
उत्पन्नमिह लोके वै जन्मप्रभृति मानवम्।
विविधान्युपवर्तन्ते दुःखानि च सुखानि च॥ 12-175-4(72003)
तयोरेकतरो मार्गो यदेनमुपसन्नयेत्।
न सुखं प्राप्य संहृष्येन्नासुखं प्राप्य संज्वरेत्॥ 12-175-5(72004)
न वै चरसि यच्छ्रेय आत्मनो वा न रंस्यसे।
अकामात्माऽपि हि सदा धुरमुद्यम्य चैव ह॥ 12-175-6(72005)
अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि।
अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह॥ 12-175-7(72006)
आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम्।
अनमित्रपथो ह्येष दुर्लभः सुलभः सताम्॥ 12-175-8(72007)
अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वतः।
अवेक्षमाणस्त्रील्लोँकान्न तुल्यमिह लक्षये॥ 12-175-9(72008)
आकिञ्चन्यं च राज्यं च तुलया समतोलयम्।
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम्॥ 12-175-10(72009)
आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम्।
नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा॥ 12-175-11(72010)
नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः।
प्रभवन्ति धनं हर्तुमितरे स्युः कुतः पुनः॥ 12-175-12(72011)
तं वै सदा कामचरमनुपस्तीर्णशायिनम्।
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः॥ 12-175-13(72012)
धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः।
तिर्यग्दृष्टिः शुष्कमुखः पापको भ्रुकुटीमुखः॥ 12-175-14(72013)
निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता।
कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम्॥ 12-175-15(72014)
श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम्।
सा तस्य चित्तं हरति शारदाभ्रमिवानिलः॥ 12-175-16(72015)
अथैनं रूपमानश्च धनपानश्च विन्दति।
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः।
इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रमाद्यति॥ 12-175-17(72016)
संप्रसक्तमना भोगान्विसृज्य पितृसंचितान्।
परिक्षीणः परस्वानामादानं साधु मन्यते॥ 12-175-18(72017)
तमतिक्रान्तमर्यादमाददानं ततस्ततः।
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः॥ 12-175-19(72018)
एवमेतानि दुःखानि तानि तानीह मानवम्।
विविधान्युपवर्तन्ते गात्रसंस्पर्शजान्यपि॥ 12-175-20(72019)
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत्।
लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह॥ 12-175-21(72020)
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम्।
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भवेत्॥ 12-175-22(72021)
इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम्।
शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः॥ ॥ 12-175-23(72022)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः॥ 175॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-175-1 स्वतन्त्रिणः स्वशास्त्रानुसारिणः॥ 12-175-2 तेन शम्याकेन यद्गीतं तन्मां प्रति कश्चिदब्रवीदिति द्वयोः संबन्धः। शंपाकेनेह मुक्तेन इति झ. पाठः॥ 12-175-3 कुचेलेन कुवस्त्रेण। निर्धनत्वादन्नाच्छादनहीन इत्यर्थः॥ 12-175-5 उपसंनयेत् संप्राप्नुयात्। तयोरेकतरे मार्गे यदेनमभिसंनयेदिति झ. पाठः। तत्र अभिसंनयेद्दैवं यदि प्रापयेत्तर्हि न संहृष्येदित्यादिना संबन्धः॥ 12-175-7 अकिञ्चनः दरिद्रः। परितः पतन् गच्छन्। अनिकेतश्चरन्नित्यर्थः॥ 12-175-8 पथ्यं मोक्षमार्गादनपेतम्। अनमित्रपथः शत्रुवर्जितः पन्थाः। दुर्लभः कामिनाम्॥ 12-175-9 उपपन्नस्य वैराग्यसंपन्नस्य॥ 12-175-12 नैवास्याग्निर्न चारिष्ट इति प्रभवन्ति धनत्यागाद्विमुक्तस्य निराशिषः इति च झ. पाठः॥ 12-175-13 अनुपस्तीर्णे शय्याहीने भूतले शेते तम्। उपधानं शीर्षोपधानम्॥ 12-175-17 अभिजात उत्तमवंश्यः त्रिभिर्धनरूपकुलैः॥ 12-175-18 भोगान् भोग्यधनादीन विसृज्य व्ययीकृत्य॥ 12-175-19 प्रतिषेधन्ति दण्डयन्ति। लुब्धा व्याधाः॥ 12-175-20 संस्पर्शजानि दाहच्छेदादीनि॥ 12-175-21 भैषज्यं प्रतीकारमाचरेत्॥ 12-175-23 शम्याकेन पुरा गीतमित्यध्याहारेण योजना॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|